Sukta 6.64
उदु श्रिय उषसो रोचमाना अस्थुरपां नोर्मयो रुशन्तः । कृणोति विश्वा सुपथा सुगान्यभूदु वस्वी दक्षिणा मघोनी ॥
उदु॑ श्रि॒य उ॒षसो॒ रोच॑माना॒ अस्थु॑र॒पां नोर्मयो॒ रुश॑न्तः । कृ॒णोति॒ विश्वा॑ सु॒पथा॑ सु॒गान्यभू॑दु॒ वस्वी॒ दक्षि॑णा म॒घोनी॑ ॥
údu śríya uṣáso rócamānā asthúr apā́ṃ no ū́rmayo rúśantaḥ | kṛṇóti víśvā su-pathā́ su-gā́ny abhū́du vasvī́ dákṣiṇā maghónī ||
Up rise the Dawns in their glory, shining forth, like bright waves of waters; they make all paths good to go upon. And the rich giving (Dakṣiṇā) has come into being—abundant, bountiful—so the soul may advance in the right-going way.
उत् । ऊँ॒ इति॑ । श्रि॒ये । उ॒षसः॑ । रोच॑मानाः । अस्थुः॑ । अ॒पाम् । न । ऊ॒र्मयः॑ । रुश॑न्तः । कृ॒णोति॑ । विश्वा॑ । सु॒ऽपथा॑ । सु॒ऽगानि॑ । अभू॑त् । ऊँ॒ इति॑ । वस्वी॑ । दक्षि॑णा । म॒घोनी॑ ॥उत् । ऊँ इति । श्रिये । उषसः । रोचमानाः । अस्थुः । अपाम् । न । ऊर्मयः । रुशन्तः । कृणोति । विश्वा । सुपथा । सुगानि । अभूत् । ऊँ इति । वस्वी । दक्षिणा । मघोनी ॥ut | oṃ iti | śriye | uṣasaḥ | rocamānāḥ | asthuḥ | apām | na | ūrmayaḥ | ruśantaḥ | kṛṇoti | viśvā | su-pathā | su-gāni | abhūt | oṃ iti | vasvī | dakṣiṇā | maghonī