Sukta 6.63
उत म ऋज्रे पुरयस्य रघ्वी सुमीळ्हे शतं पेरुके च पक्वा । शाण्डो दाद्धिरणिनः स्मद्दिष्टीन्दश वशासो अभिषाच ऋष्वान् ॥
उ॒त म॑ ऋ॒ज्रे पुर॑यस्य र॒घ्वी सु॑मी॒ळ्हे श॒तं पे॑रु॒के च॑ प॒क्वा । शा॒ण्डो दा॑द्धिर॒णिन॒: स्मद्दि॑ष्टी॒न्दश॑ व॒शासो॑ अभि॒षाच॑ ऋ॒ष्वान् ॥
utá ma ṛjŕe púrayasya raghvī́ sumīḷhé śatáṃ péruke ca pakvā́ | śāṇḍó dāddhiraṇínaḥ smad-diṣṭī́n dáśa vaśā́so abhi-sā́ca ṛṣvā́n ||
And for me, in the straight-going and swift (movement), in the well-graced seeking, there came a hundred ripe fulfillments. A strong bull gave golden gifts, ten mighty cows, close-clinging, lofty in force—tokens of the divine help made concrete in life.
उ॒त । मे॒ । ऋ॒ज्रे इति॑ । पुर॑यस्य । र॒घ्वी इति॑ । सु॒ऽमी॒ळ्हे । श॒तम् । पे॒रु॒के । च॒ । प॒क्वा । शा॒ण्डः । दा॒त् । हि॒र॒णिनः॑ । स्मत्ऽदि॑ष्टीन् । दश॑ । व॒शासः॑ । अ॒भि॒ऽसाचः॑ । ऋ॒ष्वान् ॥उत । मे । ऋज्रे इति । पुरयस्य । रघ्वी इति । सुमीळ्हे । शतम् । पेरुके । च । पक्वा । शाण्डः । दात् । हिरणिनः । स्मत्दिष्टीन् । दश । वशासः । अभिसाचः । ऋष्वान् ॥uta | me | ṛjre iti | purayasya | raghvī iti | su-mīḷhe | śatam | peruke | ca | pakvaa | śāṇḍaḥ | dāt | hiraṇinaḥ | smat-diṣṭīn | daśa | vaśāsaḥ | abhi-sācaḥ | ṛṣvān