Sukta 6.63
पुरु हि वां पुरुभुजा देष्णं धेनुं न इषं पिन्वतमसक्राम् । स्तुतश्च वां माध्वी सुष्टुतिश्च रसाश्च ये वामनु रातिमग्मन् ॥
पु॒रु हि वां॑ पुरुभुजा दे॒ष्णं धे॒नुं न॒ इषं॑ पिन्वत॒मस॑क्राम् । स्तुत॑श्च वां माध्वी सुष्टु॒तिश्च॒ रसा॑श्च॒ ये वा॒मनु॑ रा॒तिमग्म॑न् ॥
purú hí vāṃ purubhujā deṣṇáṃ dhénuṃ na íṣaṃ pinvatam ásakrām | stutáś ca vāṃ mādhvī́ suṣṭutíś ca rásāś ca yé vāṃ ánu rātím ágman ||
For you two, O wide-givers, are many the distributions: like a milch-cow, make our impulsion abound, unceasing. And may the honeyed praise and the well-formed hymn, and the sap-full tastes that follow after your giving, increase within us.
पु॒रु । हि । वा॒म् । पु॒रु॒ऽभु॒जा॒ । दे॒ष्णम् । धे॒नुम् । नः॒ । इष॑म् । पि॒न्व॒त॒म् । अस॑क्राम् । स्तुतः॑ । च॒ । वा॒म् । मा॒ध्वी॒ इति॑ । सु॒ऽस्तु॒तिः । च॒ । रसाः॑ । च॒ । ये । वा॒म् । अनु॑ । रा॒तिम् । अग्म॑न् ॥पुरु । हि । वाम् । पुरुभुजा । देष्णम् । धेनुम् । नः । इषम् । पिन्वतम् । असक्राम् । स्तुतः । च । वाम् । माध्वी इति । सुस्तुतिः । च । रसाः । च । ये । वाम् । अनु । रातिम् । अग्मन् ॥puru | hi | vām | puru-bhujā | deṣṇam | dhenum | naḥ | iṣam | pinvatam | asakrām | stutaḥ | ca | vām | mādhvī iti | su-stutiḥ | ca | rasāḥ | ca | ye | vām | anu | rātim | agman