Sukta 6.63
सं वां शता नासत्या सहस्राश्वानां पुरुपन्था गिरे दात् । भरद्वाजाय वीर नू गिरे दाद्धता रक्षांसि पुरुदंससा स्युः ॥
सं वां॑ श॒ता ना॑सत्या स॒हस्राश्वा॑नां पुरु॒पन्था॑ गि॒रे दा॑त् । भ॒रद्वा॑जाय वीर॒ नू गि॒रे दा॑द्ध॒ता रक्षां॑सि पुरुदंससा स्युः ॥
sáṃ vāṃ śatā́ nāsatyā sahásrāśvānāṃ purupánthā giré dāt | bharádvājāya vī́ra nū́ giré dād dhatā́ rákṣāṃsi purudaṃsasā syuḥ ||
May there be gathered for you, O Nāsatyas, hundreds—yes, thousands—of horse-powers; may the many-pathed song give them. For Bharadvāja, O heroes, now let the hymn bestow; and by your many deeds smite the dark assailers, so the powers of harm are undone.
सम् । वा॒म् । श॒ता । ना॒स॒त्या॒ । स॒हस्रा॑ । अश्वा॑नाम् । पु॒रु॒ऽपन्थाः॑ । गि॒रे । दा॒त् । भ॒रत्ऽवा॑जाय । वी॒र॒ । नु । गि॒रे । दा॒त् । ह॒ता । रक्षां॑सि । पु॒रु॒ऽदं॒स॒सा॒ । स्यु॒रिति॑ स्युः ॥सम् । वाम् । शता । नासत्या । सहस्रा । अश्वानाम् । पुरुपन्थाः । गिरे । दात् । भरत्वाजाय । वीर । नु । गिरे । दात् । हता । रक्षांसि । पुरुदंससा । स्युरिति स्युः ॥sam | vām | śatā | nāsatyā | sahasrā | aśvānām | puru-panthāḥ | gire | dāt | bharat-vājāya | vīra | nu | gire | dāt | hatā | rakṣāṃsi | puru-daṃsasā | syuritisyuḥ