Sukta 6.63
आ वां वयोऽश्वासो वहिष्ठा अभि प्रयो नासत्या वहन्तु । प्र वां रथो मनोजवा असर्जीषः पृक्ष इषिधो अनु पूर्वीः ॥
आ वां॒ वयोऽश्वा॑सो॒ वहि॑ष्ठा अ॒भि प्रयो॑ नासत्या वहन्तु । प्र वां॒ रथो॒ मनो॑जवा असर्जी॒षः पृ॒क्ष इ॒षिधो॒ अनु॑ पू॒र्वीः ॥
ā́ vāṃ váyo ’śvāso váhiṣṭhā abhí práyo nā́satyā vahantu | prá vāṃ rátho mánojavā asarjī́ṣaḥ pṛkṣá íṣidho ánu pūrvī́ḥ ||
May your swiftest horses bring you here, O Nāsatyas, bearing our offering-force. Forth has your chariot been released, driven by the speed of mind, following the many ancient tracks of the seeking and the impulsion.
आ । वा॒म् । वयः॑ । अश्वा॑सः । वहि॑ष्ठाः । अ॒भि । प्रयः॑ । ना॒स॒त्या॒ । व॒ह॒न्तु॒ । प्र । वा॒म् । रथः॑ । मनः॑ऽजवाः । अ॒स॒र्जि॒ । इ॒षः । पृ॒क्षः । इ॒षिधः॑ । अनु॑ । पू॒र्वीः ॥आ । वाम् । वयः । अश्वासः । वहिष्ठाः । अभि । प्रयः । नासत्या । वहन्तु । प्र । वाम् । रथः । मनःजवाः । असर्जि । इषः । पृक्षः । इषिधः । अनु । पूर्वीः ॥ā | vām | vayaḥ | aśvāsaḥ | vahiṣṭhāḥ | abhi | prayaḥ | nāsatyā | vahantu | pra | vām | rathaḥ | manaḥ-javāḥ | asarji | iṣaḥ | pṛkṣaḥ | iṣidhaḥ | anu | pūrvīḥ