Sukta 6.63
युवं श्रीभिर्दर्शताभिराभिः शुभे पुष्टिमूहथुः सूर्यायाः । प्र वां वयो वपुषेऽनु पप्तन्नक्षद्वाणी सुष्टुता धिष्ण्या वाम् ॥
यु॒वं श्री॒भिर्द॑र्श॒ताभि॑रा॒भिः शु॒भे पु॒ष्टिमू॑हथुः सू॒र्याया॑: । प्र वां॒ वयो॒ वपु॒षेऽनु॑ पप्त॒न्नक्ष॒द्वाणी॒ सुष्टु॑ता धिष्ण्या वाम् ॥
yuváṃ śrībhír darśatā́bhir ābhíḥ śubhé puṣṭím ūhathuḥ sūryā́yāḥ | prá vāṃ váyo vápúṣe ’nú paptan nákṣad vā́ṇī suṣṭútā dhiṣṇyā vām ||
You two, by your visible splendors, carry forward the growth and plenitude for the fair Sūryā. For your body of power our energies fly outward and follow; and our well-fashioned speech attains you, O lords of the luminous seats.
यु॒वम् । श्री॒भिः । द॒र्श॒ताभिः॑ । आ॒भिः । शु॒भे । पु॒ष्टिम् । ऊ॒ह॒थुः॒ । सू॒र्यायाः॑ । प्र । वा॒म् । वयः॑ । वपु॑षे । अनु॑ । प॒प्त॒न् । नक्ष॑त् । वाणी॑ । सुऽस्तु॑ता । धि॒ष्ण्या॒ । वा॒म् ॥युवम् । श्रीभिः । दर्शताभिः । आभिः । शुभे । पुष्टिम् । ऊहथुः । सूर्यायाः । प्र । वाम् । वयः । वपुषे । अनु । पप्तन् । नक्षत् । वाणी । सुस्तुता । धिष्ण्या । वाम् ॥yuvam | śrībhiḥ | darśatābhiḥ | abhiḥ | śubhe | puṣṭim | ūhathuḥ | sūryāyāḥ | pra | vām | vayaḥ | vapuṣe | anu | paptan | nakṣat | vāṇī | su-stutā | dhiṣṇyā | vām