Sukta 6.63
अधि श्रिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिम् । प्र मायाभिर्मायिना भूतमत्र नरा नृतू जनिमन्यज्ञियानाम् ॥
अधि॑ श्रि॒ये दु॑हि॒ता सूर्य॑स्य॒ रथं॑ तस्थौ पुरुभुजा श॒तोति॑म् । प्र मा॒याभि॑र्मायिना भूत॒मत्र॒ नरा॑ नृतू॒ जनि॑मन्य॒ज्ञिया॑नाम् ॥
ádhi śríye duhitā́ sū́ryasya ráthaṃ tasthau purubhujā śatótiṃ | prá māyā́bhir māyinā bhūtám átra nárā nṛtū́ jániman yajñíyānām ||
For the sake of the glory, the Daughter of the Sun has taken her stand upon the chariot—she of many enjoyments, of hundredfold help. By your powers of shaping, O lords of skill, become manifest here, O strong ones, leaders in the movement, at the birth of the sacred workings.
अधि॑ । श्रि॒ये । दु॒हि॒ता । सूर्य॑स्य । रथ॑म् । त॒स्थौ॒ । पु॒रु॒ऽभु॒जा॒ । श॒तऽऊ॑तिम् । प्र । मा॒याभिः॑ । मा॒यि॒ना॒ । भू॒त॒म् । अत्र॑ । नरा॑ । नृ॒तू॒ इति॑ । जनि॑मन् । य॒ज्ञिया॑नाम् ॥अधि । श्रिये । दुहिता । सूर्यस्य । रथम् । तस्थौ । पुरुभुजा । शतऊतिम् । प्र । मायाभिः । मायिना । भूतम् । अत्र । नरा । नृतू इति । जनिमन् । यज्ञियानाम् ॥adhi | śriye | duhitā | sūryasya | ratham | tasthau | puru-bhujā | śata-ūtim | pra | māyābhiḥ | māyinā | bhūtam | atra | narā | nṛtūiti | janiman | yajñiyānām