Sukta 6.63
ऊर्ध्वो वामग्निरध्वरेष्वस्थात्प्र रातिरेति जूर्णिनी घृताची । प्र होता गूर्तमना उराणोऽयुक्त यो नासत्या हवीमन् ॥
ऊ॒र्ध्वो वा॑म॒ग्निर॑ध्व॒रेष्व॑स्था॒त्प्र रा॒तिरे॑ति जू॒र्णिनी॑ घृ॒ताची॑ । प्र होता॑ गू॒र्तम॑ना उरा॒णोऽयु॑क्त॒ यो नास॑त्या॒ हवी॑मन् ॥
ūrdhvó vām agnír adhvaréṣv asthāt prá rātír eti jūrṇínī ghṛtā́cī | prá hótā gūrtámana urāṇó ’yukta yó nā́satyā havī́man ||
Upright for you in the offerings stands the Fire of the Will; forward moves the giving—swift, flowing, bright with clarified delight. Forward the invoking priest, with intent made straight and wide, has yoked the rite, O Nāsatyas, for the bearer of the oblation within us.
ऊ॒र्ध्वः । वा॒म् । अ॒ग्निः । अ॒ध्व॒रेषु॑ । अ॒स्था॒त् । प्र । रा॒तिः । ए॒ति॒ । जू॒र्णिनी॑ । घृ॒ताची॑ । प्र । होता॑ । गू॒र्तऽम॑नाः । उ॒रा॒णः । अयु॑क्त । यः । नास॑त्या । हवी॑मन् ॥ऊर्ध्वः । वाम् । अग्निः । अध्वरेषु । अस्थात् । प्र । रातिः । एति । जूर्णिनी । घृताची । प्र । होता । गूर्तमनाः । उराणः । अयुक्त । यः । नासत्या । हवीमन् ॥ūrdhvaḥ | vām | agniḥ | adhvareṣu | asthāt | pra | rātiḥ | eti | jūrṇinī | ghṛtācī | pra | hotā | gūrta-manāḥ | urāṇaḥ | ayukta | yaḥ | nāsatyā | havīman