Sukta 6.63
अकारि वामन्धसो वरीमन्नस्तारि बर्हिः सुप्रायणतमम् । उत्तानहस्तो युवयुर्ववन्दा वां नक्षन्तो अद्रय आञ्जन् ॥
अका॑रि वा॒मन्ध॑सो॒ वरी॑म॒न्नस्ता॑रि ब॒र्हिः सु॑प्राय॒णत॑मम् । उ॒त्ता॒नह॑स्तो युव॒युर्व॑व॒न्दा वां॒ नक्ष॑न्तो॒ अद्र॑य आञ्जन् ॥
akā́ri vām ándhaso várīmann ástāri barhíḥ suprāyaṇátamam | uttānáhasto yuvayúrvavandā́ vāṃ nákṣanto ádraya āñjan ||
For you two, the wide-flowing ecstasy (Soma-delight) has been prepared; the sacred seat of offering has been spread, most fit for your auspicious coming. With hands uplifted the soul that seeks union has bowed to you; and the pressing-stones, reaching you, anoint and quicken the delight.
अका॑रि । वा॒म् । अन्ध॑सः । वरी॑मन् । अस्ता॑रि । ब॒र्हिः । सु॒प्र॒ऽअ॒य॒नत॑मम् । उ॒त्ता॒नऽह॑स्तः । यु॒व॒युः । व॒व॒न्द॒ । आ । वा॒म् । नक्ष॑न्तः । अद्र॑यः । आ॒ञ्ज॒न् ॥अकारि । वाम् । अन्धसः । वरीमन् । अस्तारि । बर्हिः । सुप्रअयनतमम् । उत्तानहस्तः । युवयुः । ववन्द । आ । वाम् । नक्षन्तः । अद्रयः । आञ्जन् ॥akāri | vām | andhasaḥ | varīman | astāri | barhiḥ | supra-ayanatamam | uttāna-hastaḥ | yuvayuḥ | vavanda | ā | vām | nakṣantaḥ | adrayaḥ | āñjan