Sukta 6.63
अरं मे गन्तं हवनायास्मै गृणाना यथा पिबाथो अन्धः । परि ह त्यद्वर्तिर्याथो रिषो न यत्परो नान्तरस्तुतुर्यात् ॥
अरं॑ मे गन्तं॒ हव॑नाया॒स्मै गृ॑णा॒ना यथा॒ पिबा॑थो॒ अन्ध॑: । परि॑ ह॒ त्यद्व॒र्तिर्या॑थो रि॒षो न यत्परो॒ नान्त॑रस्तुतु॒र्यात् ॥
áraṃ me gántam hávanāyā́smai gṛṇānā́ yáthā píbātho ándhaḥ | pári ha tyád vartír yā́tho riṣó ná yát páro nā́ntaras tuturyā́t ||
Come readily for my call—so that, while we sing, you may drink the pressed delight. For you go around that course as a protection from harm, so that neither what is beyond nor what is within may break through to wound.
अर॑म् । मे॒ । गन्त॑म् । हव॑नाय । अ॒स्मै । गृ॒णा॒ना । यथा॑ । पिबा॑थः । अन्धः॑ । परि॑ । ह॒ । त्यत् । व॒र्तिः । या॒थः॒ । रि॒षः । न । यत् । परः॑ । न । अन्त॑रः । तु॒तु॒र्यात् ॥अरम् । मे । गन्तम् । हवनाय । अस्मै । गृणाना । यथा । पिबाथः । अन्धः । परि । ह । त्यत् । वर्तिः । याथः । रिषः । न । यत् । परः । न । अन्तरः । तुतुर्यात् ॥aram | me | gantam | havanāya | asmai | gṛṇānā | yathā | pibāthaḥ | andhaḥ | pari | ha | tyat | vartiḥ | yāthaḥ | riṣaḥ | na | yat | paraḥ | na | antaraḥ | tuturyāt