Sukta 6.63
क्व त्या वल्गू पुरुहूताद्य दूतो न स्तोमोऽविदन्नमस्वान् । आ यो अर्वाङ्नासत्या ववर्त प्रेष्ठा ह्यसथो अस्य मन्मन् ॥
क्व१॒॑ त्या व॒ल्गू पु॑रुहू॒ताद्य दू॒तो न स्तोमो॑ऽविद॒न्नम॑स्वान् । आ यो अ॒र्वाङ्नास॑त्या व॒वर्त॒ प्रेष्ठा॒ ह्यस॑थो अस्य॒ मन्म॑न् ॥
kvà tyā́ valgū puruhūtā́dya dūtó ná stómo ’vidan námasvān | ā yó arvā́ṅ nā́satyā vavárta préṣṭhā hí asátho asyá mánman ||
Where are those two gracious ones, much-invoked, today? Like a messenger the hymn has found the one who bows. Turn hither, O Nāsatyas—for you are indeed the most beloved helpers of this inward thought.
क्व॑ । त्या । व॒ल्गू इति॑ । पु॒रु॒ऽहू॒ता । अ॒द्य । दू॒तः । न । स्तोमः॑ । अ॒वि॒द॒त् । नम॑स्वान् । आ । यः । अ॒र्वाक् । नास॑त्या । व॒वर्त॑ । प्रेष्ठा॑ । हि । अस॑थः । अ॒स्य॒ । मन्म॑न् ॥क्व । त्या । वल्गू इति । पुरुहूता । अद्य । दूतः । न । स्तोमः । अविदत् । नमस्वान् । आ । यः । अर्वाक् । नासत्या । ववर्त । प्रेष्ठा । हि । असथः । अस्य । मन्मन् ॥kva | tyā | valgū iti | puru-hūtā | adya | dūtaḥ | na | stomaḥ | avidat | namasvān | ā | yaḥ | arvāk | nāsatyā | vavarta | preṣṭhā | hi | asathaḥ | asya | manman