Sukta 6.62
य ईं राजानावृतुथा विदधद्रजसो मित्रो वरुणश्चिकेतत् । गम्भीराय रक्षसे हेतिमस्य द्रोघाय चिद्वचस आनवाय ॥
य ईं॒ राजा॑नावृतु॒था वि॒दध॒द्रज॑सो मि॒त्रो वरु॑ण॒श्चिके॑तत् । ग॒म्भी॒राय॒ रक्ष॑से हे॒तिम॑स्य॒ द्रोघा॑य चि॒द्वच॑स॒ आन॑वाय ॥
yá īṃ rājā́nāv ṛtú-thā ví-dadhad rájaso mitró váruṇaś cíketa(t) | gambhīrā́ya rákṣase hétim asyá dróghāya cid vácasa ā́navāya ||
He who knows the two kings, Mitra and Varuṇa, who set the spaces in their seasonal right order—may he perceive the weapon prepared against the deep-dwelling darkness, even against the treacherous word that twists the truth.
यः । ई॒म् । राजा॑नौ । ऋ॒तु॒ऽथा । वि॒ऽदध॑त् । रज॑सः । मि॒त्रः । वरु॑णः । चिके॑तत् । ग॒म्भी॒राय॑ । रक्ष॑से । हे॒तिम् । अ॒स्य॒ । द्रोघा॑य । चि॒त् । वच॑से । आन॑वाय ॥यः । ईम् । राजानौ । ऋतुथा । विदधत् । रजसः । मित्रः । वरुणः । चिकेतत् । गम्भीराय । रक्षसे । हेतिम् । अस्य । द्रोघाय । चित् । वचसे । आनवाय ॥yaḥ | īm | rājānau | ṛtu-thā | vi-dadhat | rajasaḥ | mitraḥ | varuṇaḥ | ciketat | gambhīrāya | rakṣase | hetim | asya | droghāya | cit | vacase | ānavāya