Sukta 6.62
यद्रोदसी प्रदिवो अस्ति भूमा हेळो देवानामुत मर्त्यत्रा । तदादित्या वसवो रुद्रियासो रक्षोयुजे तपुरघं दधात ॥
यद्रो॑दसी प्र॒दिवो॒ अस्ति॒ भूमा॒ हेळो॑ दे॒वाना॑मु॒त म॑र्त्य॒त्रा । तदा॑दित्या वसवो रुद्रियासो रक्षो॒युजे॒ तपु॑र॒घं द॑धात ॥
yád rodasī pradívo ásti bhū́mā héḷo devā́nām utá martyá-trā́ | tád ādityā́ vasavo rudriyā́so rakṣo-yúje tápur agháṃ dadhāta ||
Whatever wrath or harshness is spread in the two worlds and in the far heaven—whether among the gods or in the mortal field—may the Ādityas, the Vasus, and the Rudriyas set against the yokers of darkness the burning force that places sin and harm far away.
यत् । रो॒द॒सी॒ इति॑ । प्र॒ऽदिवः॑ । अस्ति॑ । भूमा॑ । हेळः॑ । दे॒वाना॑म् । उ॒त । म॒र्त्य॒ऽत्रा । तत् । आ॒दि॒त्याः॒ । व॒स॒वः॒ । रु॒द्रि॒या॒सः॒ । र॒क्षः॒ऽयुजे॑ । तपुः॑ । अ॒घम् । द॒धा॒त॒ ॥यत् । रोदसी इति । प्रदिवः । अस्ति । भूमा । हेळः । देवानाम् । उत । मर्त्यत्रा । तत् । आदित्याः । वसवः । रुद्रियासः । रक्षःयुजे । तपुः । अघम् । दधात ॥yat | rodasī iti | pra-divaḥ | asti | bhūmā | heḷaḥ | devānām | uta | martya-trā | tat | ādityāḥ | vasavaḥ | rudriyāsaḥ | rakṣaḥ-yuje | tapuḥ | agham | dadhāta