Sukta 6.62
अन्तरैश्चक्रैस्तनयाय वर्तिर्द्युमता यातं नृवता रथेन । सनुत्येन त्यजसा मर्त्यस्य वनुष्यतामपि शीर्षा ववृक्तम् ॥
अन्त॑रैश्च॒क्रैस्तन॑याय व॒र्तिर्द्यु॒मता या॑तं नृ॒वता॒ रथे॑न । सनु॑त्येन॒ त्यज॑सा॒ मर्त्य॑स्य वनुष्य॒तामपि॑ शी॒र्षा व॑वृक्तम् ॥
ántaraiś cakráis tanáyāya vartír dyu-mátā yātam nṛ-vátā ráthena | sánutyena tyájasā martyásya vanuṣyatā́m ápi śīrṣā́ vavṛktam ||
With the inmost wheels, make a path for the child of the soul; come with your shining, man-supporting chariot. By your ancient might, cut away even at the head the oppression of the mortal who strives to serve and grow.
अन्त॑रैः । च॒क्रैः । तन॑याय । व॒र्तिः । द्यु॒ऽमता॑ । आ । या॒त॒म् । नृ॒ऽवता॑ । रथे॑न । सनु॑त्येन । त्यज॑सा । मर्त्य॑स्य । व॒नु॒ष्य॒ताम् । अपि॑ । शी॒र्षा । व॒वृ॒क्त॒म् ॥अन्तरैः । चक्रैः । तनयाय । वर्तिः । द्युमता । आ । यातम् । नृवता । रथेन । सनुत्येन । त्यजसा । मर्त्यस्य । वनुष्यताम् । अपि । शीर्षा । ववृक्तम् ॥antaraiḥ | cakraiḥ | tanayāya | vartiḥ | dyu-matā | ā | yātam | nṛ-vatā | rathena | sanutyena | tyajasā | martyasya | vanuṣyatām | api | śīrṣā | vavṛktam