Sukta 6.62
ता वल्गू दस्रा पुरुशाकतमा प्रत्ना नव्यसा वचसा विवासे । या शंसते स्तुवते शम्भविष्ठा बभूवतुर्गृणते चित्रराती ॥
ता व॒ल्गू द॒स्रा पु॑रु॒शाक॑तमा प्र॒त्ना नव्य॑सा॒ वच॒सा वि॑वासे । या शंस॑ते स्तुव॒ते शम्भ॑विष्ठा बभू॒वतु॑र्गृण॒ते चि॒त्ररा॑ती ॥
tā valgū dasrā puruśā́katamā pratnā́ navyasā vácasā vivāse | yā́ śáṃsate stuváté śámbhaviṣṭhā babhūvátur gṛṇaté citrá-rātī ||
Those two fair and wondrous helpers, most mighty in manifold effective acts—ancient yet ever-new—I serve with a fresh-forming word. For the one who declares and the one who praises, may they become the most bliss-giving, bestowing a many-colored richness of the Light to the singer.
ता । व॒ल्गू । द॒स्रा । पु॒रु॒शाक॑ऽतमा । प्र॒त्ना । नव्य॑सा । वच॑सा । आ । वि॒वा॒से॒ । या । शंस॑ते । स्तु॒व॒ते । शम्ऽभ॑विष्ठा । ब॒भू॒वतुः॑ । गृ॒ण॒ते । चि॒त्ररा॑ती॒ इति॑ चि॒त्रऽरा॑ती ॥ता । वल्गू । दस्रा । पुरुशाकतमा । प्रत्ना । नव्यसा । वचसा । आ । विवासे । या । शंसते । स्तुवते । शम्भविष्ठा । बभूवतुः । गृणते । चित्रराती इति चित्रराती ॥tā | valgū | dasrā | puruśāka-tamā | pratnā | navyasā | vacasā | ā | vivāse | yā | śaṃsate | stuvate | śam-bhaviṣṭhā | babhūvatuḥ | gṛṇate | citrarātī iticitra-rātī