Sukta 6.62
ता नव्यसो जरमाणस्य मन्मोप भूषतो युयुजानसप्ती । शुभं पृक्षमिषमूर्जं वहन्ता होता यक्षत्प्रत्नो अध्रुग्युवाना ॥
ता नव्य॑सो॒ जर॑माणस्य॒ मन्मोप॑ भूषतो युयुजा॒नस॑प्ती । शुभं॒ पृक्ष॒मिष॒मूर्जं॒ वह॑न्ता॒ होता॑ यक्षत्प्र॒त्नो अ॒ध्रुग्युवा॑ना ॥
tā navyàso járamāṇasya mánmópa bhūṣato yuyujāná-saptī | śúbhaṁ pṛ́kṣam íṣam ū́rjaṁ váhantā hótā yákṣat pratnó adhrúg yúvānā ||
Those two ever-renewing powers, adorning the thought of the growing seeker, yoked in their sevenfold working, bear for him the bright increase—impulse and nourishing strength. May the ancient, undeceiving priest within sacrifice to them, while they remain ever-youthful in their divine action.
ता । नव्य॑सः । जर॑माणस्य । मन्म॑ । उप॑ । भू॒ष॒तः॒ । यु॒यु॒जा॒नस॑प्ती॒ इति॑ यु॒यु॒जा॒नऽस॑प्ती । शुभ॑म् । पृक्ष॑म् । इष॑म् । ऊर्ज॑म् । वह॑न्ता । होता॑ । य॒क्ष॒त् । प्र॒त्नः । अ॒ध्रुक् । युवा॑ना ॥ता । नव्यसः । जरमाणस्य । मन्म । उप । भूषतः । युयुजानसप्ती इति युयुजानसप्ती । शुभम् । पृक्षम् । इषम् । ऊर्जम् । वहन्ता । होता । यक्षत् । प्रत्नः । अध्रुक् । युवाना ॥tā | navyasaḥ | jaramāṇasya | manma | upa | bhūṣataḥ | yuyujānasaptī itiyuyujāna-saptī | śubham | pṛkṣam | iṣam | ūrjam | vahantā | hotā | yakṣat | pratnaḥ | adhruk | yuvānā