Sukta 6.62
ता ह त्यद्वर्तिर्यदरध्रमुग्रेत्था धिय ऊहथुः शश्वदश्वैः । मनोजवेभिरिषिरैः शयध्यै परि व्यथिर्दाशुषो मर्त्यस्य ॥
ता ह॒ त्यद्व॒र्तिर्यदर॑ध्रमुग्रे॒त्था धिय॑ ऊहथु॒: शश्व॒दश्वै॑: । मनो॑जवेभिरिषि॒रैः श॒यध्यै॒ परि॒ व्यथि॑र्दा॒शुषो॒ मर्त्य॑स्य ॥
tā́ ha tyád vartír yád arádhram ugrā́ itthā́ dhíya ūhathuḥ śáśvad áśvaiḥ | manó-javebhir iṣiráiḥ śayádhyai párí vyáthir dāśúṣo mártyasya ||
You two indeed, O mighty ones, drew forth that unbroken track; thus you bear the inspired thoughts with your ever-present horses—swift as mind, eager—around the mortal who offers, removing his distress and shaking off obstruction.
ता । ह॒ । त्यत् । व॒र्तिः । यत् । अर॑ध्रम् । उ॒ग्रा॒ । इ॒त्था । धियः॑ । ऊ॒ह॒थुः॒ । शश्व॑त् । अश्वैः॑ । मनः॑ऽजवेभिः । इ॒षि॒रैः । श॒यध्यै॑ । परि॑ । व्यर्थिः॑ । दा॒शुषः॑ । मर्त्य॑स्य ॥ता । ह । त्यत् । वर्तिः । यत् । अरध्रम् । उग्रा । इत्था । धियः । ऊहथुः । शश्वत् । अश्वैः । मनःजवेभिः । इषिरैः । शयध्यै । परि । व्यर्थिः । दाशुषः । मर्त्यस्य ॥tā | ha | tyat | vartiḥ | yat | aradhram | ugrā | itthā | dhiyaḥ | ūhathuḥ | śaśvat | aśvaiḥ | manaḥ-javebhiḥ | iṣiraiḥ | śayadhyai | pari | vyarthiḥ | dāśuṣaḥ | martyasya