Sukta 6.62
ता यज्ञमा शुचिभिश्चक्रमाणा रथस्य भानुं रुरुचू रजोभिः । पुरू वरांस्यमिता मिमानापो धन्वान्यति याथो अज्रान् ॥
ता य॒ज्ञमा शुचि॑भिश्चक्रमा॒णा रथ॑स्य भा॒नुं रु॑रुचू॒ रजो॑भिः । पु॒रू वरां॒स्यमि॑ता॒ मिमा॑ना॒पो धन्वा॒न्यति॑ याथो॒ अज्रा॑न् ॥
tā́ yajñám ā́ śúci-bhiś cakramāṇā́ ráthasya bhānúṃ rurucū́ rájobhiḥ | purū́ varā́ṃsy ámitā mimānā́ apó dhanvā́ny áti yātho ajrā́n ||
Those two, moving to the sacrifice with their pure powers, made the radiance of their chariot shine through the spaces; measuring out many immeasurable desirable widenesses, you pass beyond the waters and the dry stretches, beyond the open plains.
ता । य॒ज्ञम् । आ । शुचि॑ऽभिः । च॒क्र॒मा॒णा । रथ॑स्य । भा॒नुम् । रु॒रु॒चुः॒ । रजः॑ऽभिः । पु॒रु । वरां॒सि । अमि॑ता । मिमा॑ना । अ॒पः । धन्वा॑नि । अति॑ । या॒थः॒ । अज्रा॑न् ॥ता । यज्ञम् । आ । शुचिभिः । चक्रमाणा । रथस्य । भानुम् । रुरुचुः । रजःभिः । पुरु । वरांसि । अमिता । मिमाना । अपः । धन्वानि । अति । याथः । अज्रान् ॥tā | yajñam | ā | śuci-bhiḥ | cakramāṇā | rathasya | bhānum | rurucuḥ | rajaḥ-bhiḥ | puru | varāṃsi | amitā | mimānā | apaḥ | dhanvāni | ati | yāthaḥ | ajrān