Sukta 6.62
स्तुषे नरा दिवो अस्य प्रसन्ताश्विना हुवे जरमाणो अर्कैः । या सद्य उस्रा व्युषि ज्मो अन्तान्युयूषतः पर्युरू वरांसि ॥
स्तु॒षे नरा॑ दि॒वो अ॒स्य प्र॒सन्ता॒श्विना॑ हुवे॒ जर॑माणो अ॒र्कैः । या स॒द्य उ॒स्रा व्युषि॒ ज्मो अन्ता॒न्युयू॑षत॒: पर्यु॒रू वरां॑सि ॥
stuṣé nárā divó asyá pra-sántā́śvinā huvé járamāṇo arkáiḥ | yā́ sadyá usrā́ vyúṣi jmó antā́n yuyū́ṣataḥ páry urū́ varā́ṃsi ||
I praise you, O two Lords of the heaven’s widening—Aśvins—invoking you with hymns as one who grows in aspiration; you who, at once, at the dawning, drive away the boundaries and open wide the desirable paths.
स्तु॒षे । नरा॑ । दि॒वः । अ॒स्य । प्र॒ऽसन्ता॑ । अ॒श्विना॑ । हु॒वे॒ । जर॑माणः । अ॒र्कैः । या । स॒द्यः । उ॒स्रा । वि॒ऽउषि॑ । ज्मः । अन्ता॑न् । युयू॑षतः । परि॑ । उ॒रु । वरां॑सि ॥स्तुषे । नरा । दिवः । अस्य । प्रसन्ता । अश्विना । हुवे । जरमाणः । अर्कैः । या । सद्यः । उस्रा । विउषि । ज्मः । अन्तान् । युयूषतः । परि । उरु । वरांसि ॥stuṣe | narā | divaḥ | asya | pra-santā | aśvinā | huve | jaramāṇaḥ | arkaiḥ | yā | sadyaḥ | usrā | vi-uṣi | jmaḥ | antān | yuyāūṣataḥ | pari | uru | varāṃsi