Sukta 6.62
आ परमाभिरुत मध्यमाभिर्नियुद्भिर्यातमवमाभिरर्वाक् । दृळ्हस्य चिद्गोमतो वि व्रजस्य दुरो वर्तं गृणते चित्रराती ॥
आ प॑र॒माभि॑रु॒त म॑ध्य॒माभि॑र्नि॒युद्भि॑र्यातमव॒माभि॑र॒र्वाक् । दृ॒ळ्हस्य॑ चि॒द्गोम॑तो॒ वि व्र॒जस्य॒ दुरो॑ वर्तं गृण॒ते चि॑त्रराती ॥
ā paramā́bhir utá madhyamā́bhir niyúd-bhir yātam avamā́bhir arvā́k | dṛḷhásya cid gó-mato ví vrajásya dúro vartaṃ gṛṇaté citrá-rātī ||
Come with your yoked energies from the highest and the middle and the lower ranges, turning here towards us. Even of the firm-closed pen of the luminous cows, open the doors—O givers of radiant riches—to the one who sings.
आ । प॒र॒माभिः॑ । उ॒त । म॒ध्य॒माभिः॑ । नि॒युत्ऽभिः॑ । या॒त॒म् । अ॒व॒माभिः॑ । अ॒र्वाक् । दृ॒ळ्हस्य॑ । चि॒त् । गोऽम॑तः । वि । व्र॒जस्य॑ । दुरः॑ । व॒र्त॒म् । गृ॒ण॒ते । चि॒त्र॒रा॒ती॒ इति॑ चित्रऽराती ॥आ । परमाभिः । उत । मध्यमाभिः । नियुत्भिः । यातम् । अवमाभिः । अर्वाक् । दृळ्हस्य । चित् । गोमतः । वि । व्रजस्य । दुरः । वर्तम् । गृणते । चित्रराती इति चित्रराती ॥ā | paramābhiḥ | uta | madhyamābhiḥ | niyut-bhiḥ | yātam | avamābhiḥ | arvāk | dṛḷhasya | cit | go--mataḥ | vi | vrajasya | duraḥ | vartam | gṛṇate | citrarātī iticitra-rātī