Sukta 6.61
सरस्वति देवनिदो नि बर्हय प्रजां विश्वस्य बृसयस्य मायिनः । उत क्षितिभ्योऽवनीरविन्दो विषमेभ्यो अस्रवो वाजिनीवति ॥
सर॑स्वति देव॒निदो॒ नि ब॑र्हय प्र॒जां विश्व॑स्य॒ बृस॑यस्य मा॒यिन॑: । उ॒त क्षि॒तिभ्यो॒ऽवनी॑रविन्दो वि॒षमे॑भ्यो अस्रवो वाजिनीवति ॥
sarasvati deva-nido ni barhaya pra-jāṃ viśvasya bṛsayasya māyinaḥ | uta kṣiti-bhyo 'vanīr avindo viṣamebhyo asravo vājinī-vati ||
O Sarasvatī, thrust down the revilers of the divine; shatter the progeny and increase of the universal deceiver. And for the peoples you found the paths; from the hard places you made the streams to flow, O she of victorious force.
सर॑स्वति । दे॒व॒ऽनिदः॑ । नि । ब॒र्ह॒य॒ । प्र॒ऽजाम् । विश्व॑स्य । बृस॑यस्य । मा॒यिनः॑ । उ॒त । क्षि॒तिऽभ्यः॑ । अ॒वनीः॑ । अ॒वि॒न्दः॒ । वि॒षम् । ए॒भ्यः॒ । अ॒स्र॒वः॒ । वा॒जि॒नी॒ऽव॒ति॒ ॥सरस्वति । देवनिदः । नि । बर्हय । प्रजाम् । विश्वस्य । बृसयस्य । मायिनः । उत । क्षितिभ्यः । अवनीः । अविन्दः । विषम् । एभ्यः । अस्रवः । वाजिनीवति ॥sarasvati | deva-nidaḥ | ni | barhaya | pra-jām | viśvasya | bṛsayasya | māyinaḥ | uta | kṣiti-bhyaḥ | avanīḥ | avindaḥ | viṣam | ebhyaḥ | asravaḥ | vājinī-vati