Sukta 6.60
ताभिरा गच्छतं नरोपेदं सवनं सुतम् । इन्द्राग्नी सोमपीतये ॥
ताभि॒रा ग॑च्छतं न॒रोपे॒दं सव॑नं सु॒तम् । इन्द्रा॑ग्नी॒ सोम॑पीतये ॥
tā́bhir ā́ gácchataṃ narópedáṃ sávanam sutám | indrā́gnī sómapītaye ||
With those harnessed powers come here, O heroic ones, to this pressed Soma at the offering-session, O Indra and Agni, for the drinking of delight.
ताभिः॑ । आ । ग॒च्छ॒त॒म् । न॒रा॒ । उप॑ । इ॒दम् । सव॑नम् । सु॒तम् । इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥ताभिः । आ । गच्छतम् । नरा । उप । इदम् । सवनम् । सुतम् । इन्द्राग्नी इति । सोमपीतये ॥tābhiḥ | ā | gacchatam | narā | upa | idam | savanam | sutam | indrāgnī iti | soma-pītaye