Sukta 6.60
या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा । इन्द्राग्नी ताभिरा गतम् ॥
या वां॒ सन्ति॑ पुरु॒स्पृहो॑ नि॒युतो॑ दा॒शुषे॑ नरा । इन्द्रा॑ग्नी॒ ताभि॒रा ग॑तम् ॥
yā́ vāṃ sánti puruspṛ́ho niyúto dāśúṣe narā | indrā́gnī tā́bhir ā́ gatam ||
Whatever eager-yoked movements of yours, desired by many, are there for the giver, O two heroic powers—O Indra and Agni, come with them to us.
याः । वा॒म् । सन्ति॑ । पु॒रु॒ऽस्पृहः॑ । नि॒ऽयुतः॑ । दा॒शुषे॑ । न॒रा॒ । इन्द्रा॑ग्नी॒ इति॑ । ताभिः॑ । आ । ग॒त॒म् ॥याः । वाम् । सन्ति । पुरुस्पृहः । नियुतः । दाशुषे । नरा । इन्द्राग्नी इति । ताभिः । आ । गतम् ॥yāḥ | vām | santi | puru-spṛhaḥ | ni-yutaḥ | dāśuṣe | narā | indrāgnī iti | tābhiḥ | ā | gatam