Sukta 6.60
आ वृत्रहणा वृत्रहभिः शुष्मैरिन्द्र यातं नमोभिरग्ने अर्वाक् । युवं राधोभिरकवेभिरिन्द्राग्ने अस्मे भवतमुत्तमेभिः ॥
आ वृ॑त्रहणा वृत्र॒हभि॒: शुष्मै॒रिन्द्र॑ या॒तं नमो॑भिरग्ने अ॒र्वाक् । यु॒वं राधो॑भि॒रक॑वेभिरि॒न्द्राग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभि॑: ॥
ā́ vṛtrahanā vṛtrahábhhiḥ śúṣmair índra yā́taṃ namóbhir agne arvā́k | yuváṃ rā́dhobhir ákavebhir indrā́gne asmè bhavatam uttamébhiḥ ||
Come hither, O Indra and Agni, slayers of the Coverer, with your victorious powers and impelling energies; approach us with our acts of submission. You two, Indra-Agni, become for us with your unerring, luminous gifts, the highest helpers and bringers of the best plenitudes.
आ । वृ॒त्र॒ऽह॒ना॒ । वृ॒त्र॒हऽभिः॑ । शुष्मैः॑ । इन्द्र॑ । या॒तम् । नमः॑ऽभिः । अ॒ग्ने॒ । अ॒र्वाक् । यु॒वम् । राधः॑ऽभिः । अक॑वेभिः । इ॒न्द्र॒ । अग्ने॑ । अ॒स्मे इति॑ । भ॒व॒त॒म् । उ॒त्ऽत॒मेभिः॑ ॥आ । वृत्रहना । वृत्रहभिः । शुष्मैः । इन्द्र । यातम् । नमःभिः । अग्ने । अर्वाक् । युवम् । राधःभिः । अकवेभिः । इन्द्र । अग्ने । अस्मे इति । भवतम् । उत्तमेभिः ॥ā | vṛtra-hanā | vṛtraha-bhiḥ | śuṣmaiḥ | indra | yātam | namaḥ-bhiḥ | agne | arvāk | yuvam | rādhaḥ-bhiḥ | akavebhiḥ | indra | agne | asme iti | bhavatam | ut-tamebhiḥ