Sukta 6.6
ये ते शुक्रासः शुचयः शुचिष्मः क्षां वपन्ति विषितासो अश्वाः । अध भ्रमस्त उर्विया वि भाति यातयमानो अधि सानु पृश्नेः ॥
ये ते॑ शु॒क्रास॒: शुच॑यः शुचिष्म॒: क्षां वप॑न्ति॒ विषि॑तासो॒ अश्वा॑: । अध॑ भ्र॒मस्त॑ उर्वि॒या वि भा॑ति या॒तय॑मानो॒ अधि॒ सानु॒ पृश्ने॑: ॥
yé te śukrā́saḥ śúcayaḥ śuciṣmáḥ kṣā́m vapanti víṣitāso áśvāḥ | ádha bhramáṣ ta urviyā́ ví bhāti yātáyamāno ádhi sā́nu pṛ́śneḥ ||
Those bright and pure powers of yours, O flame of purity—like steeds well-reined—plough the earth of our nature. Then your wide-ranging turning radiance shines out, moving on the ridge of the dappled one, guiding and driving forward the journey.
ये । ते॒ । शु॒क्रासः॑ । शुच॑यः । शु॒चि॒ष्मः॒ । क्षाम् । वप॑न्ति । विऽसि॑तासः । अश्वाः॑ । अध॑ । भ्र॒मः । ते॒ । उ॒र्वि॒या । वि । भा॒ति॒ । या॒तय॑मानः । अधि॑ । सानु॑ । पृश्नेः॑ ॥ये । ते । शुक्रासः । शुचयः । शुचिष्मः । क्षाम् । वपन्ति । विसितासः । अश्वाः । अध । भ्रमः । ते । उर्विया । वि । भाति । यातयमानः । अधि । सानु । पृश्नेः ॥ye | te | śukrāsaḥ | śucayaḥ | śuciṣmaḥ | kṣām | vapanti | vi-sitāsaḥ | aśvāḥ | adha | bhramaḥ | te | urviyā | vi | bhāti | yātayamānaḥ | adhi | sānu | pṛśneḥ