Sukta 6.6
अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना । शूरस्येव प्रसितिः क्षातिरग्नेर्दुर्वर्तुर्भीमो दयते वनानि ॥
अध॑ जि॒ह्वा पा॑पतीति॒ प्र वृष्णो॑ गोषु॒युधो॒ नाशनि॑: सृजा॒ना । शूर॑स्येव॒ प्रसि॑तिः क्षा॒तिर॒ग्नेर्दु॒र्वर्तु॑र्भी॒मो द॑यते॒ वना॑नि ॥
ádha jihvā́ pāpatīti prá vṛ́ṣṇo goṣu-yúdho nā́śaniḥ sṛjānā́ | śū́rasyeva prásitiḥ kṣātír agnér durvártūr bhīmó dayate vánāni ||
Then the tongue of the Fire leaps forward—like a thunderbolt loosed by the strong warrior in the battle for the Rays. Like the onset of a hero is the spreading dominion of Agni; formidable, hard to turn back, it cleaves the forests of obstruction.
अध॑ । जि॒ह्वा । पा॒प॒ती॒ति॒ । प्र । वृष्णः॑ । गो॒षु॒ऽयुधः॑ । न । अ॒शनिः॑ । सृ॒जा॒ना । शूर॑स्यऽइव । प्रऽसि॑तिः । क्षा॒तिः । अ॒ग्नेः । दुः॒ऽवर्तुः॑ । भी॒मः । द॒य॒ते॒ । वना॑नि ॥अध । जिह्वा । पापतीति । प्र । वृष्णः । गोषुयुधः । न । अशनिः । सृजाना । शूरस्यइव । प्रसितिः । क्षातिः । अग्नेः । दुःवर्तुः । भीमः । दयते । वनानि ॥adha | jihvā | pāpatīti | pra | vṛṣṇaḥ | goṣu-yudhaḥ | na | aśaniḥ | sṛjānā | śūrasya-iva | pra-sitiḥ | kṣātiḥ | agneḥ | duḥ-vartuḥ | bhīmaḥ | dayate | vanāni