Sukta 6.6
वि ते विष्वग्वातजूतासो अग्ने भामासः शुचे शुचयश्चरन्ति । तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः ॥
वि ते॒ विष्व॒ग्वात॑जूतासो अग्ने॒ भामा॑सः शुचे॒ शुच॑यश्चरन्ति । तु॒वि॒म्र॒क्षासो॑ दि॒व्या नव॑ग्वा॒ वना॑ वनन्ति धृष॒ता रु॒जन्त॑: ॥
ví te víṣvag vā́ta-jūtāso agne bhā́māsaḥ śuce śúcayaś caranti | tuvímrakṣāso divyā́ návagvā vánā vananti dhṛṣatá rujántaḥ ||
O Agni, pure and luminous, your flame-powers driven by the breath move everywhere. Vast in their shining, divine like the Navagvas, they win for us the forests of concealment, boldly breaking them open.
वि । ते॒ । विष्व॑क् । वात॑ऽजूतासः । अ॒ग्ने॒ । भामा॑सः । शु॒चे॒ । शुच॑यः । च॒र॒न्ति॒ । तु॒वि॒ऽम्र॒क्षासः॑ । दि॒व्याः । नव॑ऽग्वाः । वना॑ । व॒न॒न्ति॒ । धृ॒ष॒ता । रु॒जन्तः॑ ॥वि । ते । विष्वक् । वातजूतासः । अग्ने । भामासः । शुचे । शुचयः । चरन्ति । तुविम्रक्षासः । दिव्याः । नवग्वाः । वना । वनन्ति । धृषता । रुजन्तः ॥vi | te | viṣvak | vāta-jūtāsaḥ | agne | bhāmāsaḥ | śuce | śucayaḥ | caranti | tuvi-mrakṣāsaḥ | divyāḥ | nava-gvāḥ | vanā | vananti | dhṛṣatā | rujantaḥ