Sukta 6.6
स श्वितानस्तन्यतू रोचनस्था अजरेभिर्नानदद्भिर्यविष्ठः । यः पावकः पुरुतमः पुरूणि पृथून्यग्निरनुयाति भर्वन् ॥
स श्वि॑ता॒नस्त॑न्य॒तू रो॑चन॒स्था अ॒जरे॑भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः । यः पा॑व॒कः पु॑रु॒तम॑: पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्व॑न् ॥
sa śvitānas tānyatuḥ rocana-sthā ajarebhir nānadadbhir yaviṣṭhaḥ | yaḥ pāvakaḥ puru-tamaḥ purūṇi pṛthūny agnir anu-yāti bharvan ||
He spreads out, thundering, established in the luminous spaces, the youngest, with his unaging, resounding powers. This Agni, the Purifier, most abundant, follows after the many wide realms, bearing and supporting the onward movement.
सः । श्वि॒ता॒नः । ता॒न्य॒तुः । रो॒च॒न॒ऽस्थाः । अ॒जरे॑भिः । नान॑दत्ऽभिः । यवि॑ष्ठः । यः । पा॒व॒कः । पु॒रु॒ऽतमः॑ । पु॒रूणि॑ । पृ॒थूनि॑ । अ॒ग्निः । अ॒नु॒ऽयाति॑ । भर्व॑न् ॥सः । श्वितानः । तान्यतुः । रोचनस्थाः । अजरेभिः । नानदत्भिः । यविष्ठः । यः । पावकः । पुरुतमः । पुरूणि । पृथूनि । अग्निः । अनुयाति । भर्वन् ॥saḥ | śvitānaḥ | tānyatuḥ | rocana-sthāḥ | ajarebhiḥ | nānadat-bhiḥ | yaviṣṭhaḥ | yaḥ | pāvakaḥ | puru-tamaḥ | purūṇi | pṛthūni | agniḥ | anu-yāti | bharvan