Sukta 6.6
प्र नव्यसा सहसः सूनुमच्छा यज्ञेन गातुमव इच्छमानः । वृश्चद्वनं कृष्णयामं रुशन्तं वीती होतारं दिव्यं जिगाति ॥
प्र नव्य॑सा॒ सह॑सः सू॒नुमच्छा॑ य॒ज्ञेन॑ गा॒तुमव॑ इ॒च्छमा॑नः । वृ॒श्चद्व॑नं कृ॒ष्णया॑मं॒ रुश॑न्तं वी॒ती होता॑रं दि॒व्यं जि॑गाति ॥
pra navyasā sahasaḥ sūnum acchā yajñena gātum ava icchamānaḥ | vṛścad-vanam kṛṣṇayāmam ruśantaṃ vītī hotāraṃ divyaṃ jigāti ||
Forward with a newer offering he goes to the Son of Force, seeking by sacrifice the path and the help. He reaches the divine Hotar of the welcoming—shining, cutting through the thicket, moving through the blackness of night.
प्र । नव्य॑सा । सह॑सः । सू॒नुम् । अच्छ॑ । य॒ज्ञेन॑ । गा॒तुम् । अवः॑ । इ॒च्छमा॑नः । वृ॒श्चत्ऽव॑नम् । कृ॒ष्णया॑मम् । रुश॑न्तम् । वी॒ती । होता॑रम् । दि॒व्यम् । जि॒गा॒ति॒ ॥प्र । नव्यसा । सहसः । सूनुम् । अच्छ । यज्ञेन । गातुम् । अवः । इच्छमानः । वृश्चत्वनम् । कृष्णयामम् । रुशन्तम् । वीती । होतारम् । दिव्यम् । जिगाति ॥pra | navyasā | sahasaḥ | sūnum | accha | yajñena | gātum | avaḥ | icchamānaḥ | vṛścat-vanam | kṛṣṇayāmam | ruśantam | vītī | hotāram | divyam | jigāti