Sukta 6.58
अजाश्वः पशुपा वाजपस्त्यो धियंजिन्वो भुवने विश्वे अर्पितः । अष्ट्रां पूषा शिथिरामुद्वरीवृजत्संचक्षाणो भुवना देव ईयते ॥
अ॒जाश्व॑: पशु॒पा वाज॑पस्त्यो धियंजि॒न्वो भुव॑ने॒ विश्वे॒ अर्पि॑तः । अष्ट्रां॑ पू॒षा शि॑थि॒रामु॒द्वरी॑वृजत्सं॒चक्षा॑णो॒ भुव॑ना दे॒व ई॑यते ॥
ajā́śvaḥ paśupā́ vājápastyo dhiyáṃjinvo bhúvane víśve árpitaḥ | áṣṭrāṃ pūṣā́ śithirā́m údvarīvṛjat saṃcákṣāṇo bhúvanā devá īyate ||
Pūṣan—master of the goat-and-horse powers, protector of the herds, lord of plenitudes—stirs the thought into fullness, set in all the worlds. He loosens the tight knot (aṣṭrā) and opens the constriction; seeing together the worlds, the god moves on—guiding the being through its planes.
अ॒जऽअ॑श्वः । प॒शु॒ऽपाः । वाज॑ऽपस्त्यः । धि॒य॒म्ऽजि॒न्वः । भुव॑ने । विश्वे॑ । अर्पि॑तः । अष्ट्रा॑म् । पू॒षा । शि॒थि॒राम् । उ॒त्ऽवरी॑वृजत् । स॒म्ऽचक्षा॑णः । भुव॑ना । दे॒वः । ई॒य॒ते॒ ॥अजअश्वः । पशुपाः । वाजपस्त्यः । धियम्जिन्वः । भुवने । विश्वे । अर्पितः । अष्ट्राम् । पूषा । शिथिराम् । उत्वरीवृजत् । सम्चक्षाणः । भुवना । देवः । ईयते ॥aja-aśvaḥ | paśu-pāḥ | vāja-pastyaḥ | dhiyam-jinvaḥ | bhuvane | viśve | arpitaḥ | aṣṭrām | pūṣā | śithirām | ut-varīvṛjat | sam-cakṣāṇaḥ | bhuvanā | devaḥ | īyate