Sukta 6.58
शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि । विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ॥
शु॒क्रं ते॑ अ॒न्यद्य॑ज॒तं ते॑ अ॒न्यद्विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु ॥
śukráṃ te anyád yajatáṃ te anyád víṣurūpe áhanī dyáur-ivāsi | víśvā hí māyā́ ávasi svadhāvo bhadrā́ te pūṣann ihá rātír astu ||
One power of you is luminous, another power of you is adorable; you are like heaven in the two days—diverse in form. For you guard all the workings (māyāḥ) by your own law of being. O Pūṣan, may your gracious giving be here for us—beneficent in the inner journey.
शु॒क्रम् । ते॒ । अ॒न्यत् । य॒ज॒तम् । ते॒ । अ॒न्यत् । विषु॑रूपे॒ इति॒ विषु॑ऽरूपे । अह॑नी॒ इति॑ । द्यौःऽइ॑व । अ॒सि॒ । विश्वाः॑ । हि । मा॒याः । अव॑सि । स्व॒धा॒ऽवः॒ । भ॒द्रा । ते॒ । पू॒ष॒न् । इ॒ह । रा॒तिः । अ॒स्तु॒ ॥शुक्रम् । ते । अन्यत् । यजतम् । ते । अन्यत् । विषुरूपे इति विषुरूपे । अहनी इति । द्यौःइव । असि । विश्वाः । हि । मायाः । अवसि । स्वधावः । भद्रा । ते । पूषन् । इह । रातिः । अस्तु ॥śukram | te | anyat | yajatam | te | anyat | viṣurūpeitiviṣu-rūpe | ahanī iti | dyauḥ-iva | asi | viśvāḥ | hi | māyāḥ | avasi | svadhāvaḥ | bhadrā | te | pūṣan | iha | rātiḥ | astu