Sukta 6.57
तां पूष्णः सुमतिं वयं वृक्षस्य प्र वयामिव । इन्द्रस्य चा रभामहे ॥
तां पू॒ष्णः सु॑म॒तिं व॒यं वृ॒क्षस्य॒ प्र व॒यामि॑व । इन्द्र॑स्य॒ चा र॑भामहे ॥
tā́ṃ pūṣṇáḥ sumatím vayáṃ vṛkṣásya prá vayā́m-iva | índrasya cā́ rabhāmahe ||
That luminous right-mindedness of Pūṣan we would lay hold of, as one takes firm support upon a tree’s spreading strength; and we would also seize the might of Indra—so our ascent is secure and victorious.
ताम् । पू॒ष्णः । सु॒ऽम॒तिम् । व॒यम् । वृ॒क्षस्य॑ । प्र । व॒याम्ऽइ॑व । इन्द्र॑स्य । च॒ । आ । र॒भा॒म॒हे॒ ॥ताम् । पूष्णः । सुमतिम् । वयम् । वृक्षस्य । प्र । वयाम्इव । इन्द्रस्य । च । आ । रभामहे ॥tām | pūṣṇaḥ | su-matim | vayam | vṛkṣasya | pra | vayām-iva | indrasya | ca | ā | rabhāmahe