Sukta 6.57
यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः । तत्र पूषाभवत्सचा ॥
यदिन्द्रो॒ अन॑य॒द्रितो॑ म॒हीर॒पो वृष॑न्तमः । तत्र॑ पू॒षाभ॑व॒त्सचा॑ ॥
yád índro ánayad rító mahī́r apó vṛ́ṣantamaḥ | tátra pūṣā́bhavat sácā ||
When Indra, most puissant in the outpouring, led forth the vast waters by the law of Truth (R̥ta), there Pūṣan was with him—companioning the movement, guiding it into right courses within the being.
यत् । इन्द्रः॑ । अन॑यत् । रितः॑ । म॒हीः । अ॒पः । वृष॑न्ऽतमः । तत्र॑ । पू॒षा । अ॒भ॒व॒त् । सचा॑ ॥यत् । इन्द्रः । अनयत् । रितः । महीः । अपः । वृषन्तमः । तत्र । पूषा । अभवत् । सचा ॥yat | indraḥ | anayat | ritaḥ | mahīḥ | apaḥ | vṛṣan-tamaḥ | tatra | pūṣā | abhavat | sacā