Sukta 6.53
या ते अष्ट्रा गोपशाघृणे पशुसाधनी । तस्यास्ते सुम्नमीमहे ॥
या ते॒ अष्ट्रा॒ गो॑प॒शाघृ॑णे पशु॒साध॑नी । तस्या॑स्ते सु॒म्नमी॑महे ॥
yā́ te áṣṭrā gṓpaśā́ghṛṇe paśu-sā́dhanī | tásyās te sumnám īmahe ||
That goad of yours, O radiant Pūṣan, which guards the herds and accomplishes the gaining of living powers—of that we seek your grace and happy protection.
या । ते॒ । अष्ट्रा॑ । गोऽओ॑पशा । आघृ॑णे । प॒शु॒ऽसाध॑नी । तस्याः॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥या । ते । अष्ट्रा । गोओपशा । आघृणे । पशुसाधनी । तस्याः । ते । सुम्नम् । ईमहे ॥yā | te | aṣṭrā | go--opaśā | āghṛṇe | paśu-sādhanī | tasyāḥ | te | sumnam | īmahe