Sukta 6.53
उत नो गोषणिं धियमश्वसां वाजसामुत । नृवत्कृणुहि वीतये ॥
उ॒त नो॑ गो॒षणिं॒ धिय॑मश्व॒सां वा॑ज॒सामु॒त । नृ॒वत्कृ॑णुहि वी॒तये॑ ॥
utá no gṓṣaṇiṁ dhíyam aśvasā́ṁ vā́jasām utá | nṛvát kṛṇuhi vītáye ||
And make for us a thought that wins the cows—also one that wins the horses and the plenitudes of force; make it manful and effective for our receiving and enjoyment.
उ॒त । नः॒ । गो॒ऽसनि॑म् । धिय॑म् । अ॒श्व॒साम् । वा॒ज॒साम् । उ॒त । नृ॒ऽवत् । कृ॒णु॒हि॒ । वी॒तये॑ ॥उत । नः । गोसनिम् । धियम् । अश्वसाम् । वाजसाम् । उत । नृवत् । कृणुहि । वीतये ॥uta | naḥ | go--saṇim | dhiyam | aśvasām | vājasām | uta | nṛ-vat | kṛṇuhi | vītaye