Sukta 6.53
वि पथो वाजसातये चिनुहि वि मृधो जहि । साधन्तामुग्र नो धियः ॥
वि प॒थो वाज॑सातये चिनु॒हि वि मृधो॑ जहि । साध॑न्तामुग्र नो॒ धिय॑: ॥
ví pathó vā́jasātaye cinuhí ví mṛ́dho jahí | sā́dhantām ugra no dhíyaḥ ||
Open out the paths for the winning of plenitude; strike away the hostile resistances. O strong one, let our inspired thoughts accomplish their work.
वि । प॒थः । वाज॑ऽसातये । चि॒नु॒हि । वि । मृधः॑ । ज॒हि॒ । साध॑न्ताम् । उ॒ग्र॒ । नः॒ । धियः॑ ॥वि । पथः । वाजसातये । चिनुहि । वि । मृधः । जहि । साधन्ताम् । उग्र । नः । धियः ॥vi | pathaḥ | vāja-sātaye | cinuhi | vi | mṛdhaḥ | jahi | sādhantām | ugra | naḥ | dhiyaḥ