Sukta 6.53
अदित्सन्तं चिदाघृणे पूषन्दानाय चोदय । पणेश्चिद्वि म्रदा मनः ॥
अदि॑त्सन्तं चिदाघृणे॒ पूष॒न्दाना॑य चोदय । प॒णेश्चि॒द्वि म्र॑दा॒ मन॑: ॥
ádit santaṃ cid āghṛṇe pū́ṣan dā́nāya codaya | paṇéś cid ví mradā mánaḥ ||
O Pūṣan of kindly light, impel even the unwilling toward giving; and even in the trafficker’s heart break open the knot—soften and turn it toward generosity.
अदि॑त्सन्तम् । चि॒त् । आ॒घृ॒णे॒ । पूष॑न् । दाना॑य । चो॒द॒य॒ । प॒णेः । चि॒त् । वि । म्र॒द॒ । मनः॑ ॥अदित्सन्तम् । चित् । आघृणे । पूषन् । दानाय । चोदय । पणेः । चित् । वि । म्रद । मनः ॥aditsantam | cit | āghṛṇe | pūṣan | dānāya | codaya | paṇeḥ | cit | vi | mrada | manaḥ