Sukta 6.50
उत त्वं सूनो सहसो नो अद्या देवाँ अस्मिन्नध्वरे ववृत्याः । स्यामहं ते सदमिद्रातौ तव स्यामग्नेऽवसा सुवीरः ॥
उ॒त त्वं सू॑नो सहसो नो अ॒द्या दे॒वाँ अ॒स्मिन्न॑ध्व॒रे व॑वृत्याः । स्याम॒हं ते॒ सद॒मिद्रा॒तौ तव॑ स्याम॒ग्नेऽव॑सा सु॒वीर॑: ॥
utá tváṃ sū́no sahaso no adyá devā́n asmín adhvaré vavṛtyāḥ | syā́m aháṃ te sádham íd rātáu táva syām agne ávasā su-vī́raḥ ||
And thou, O son of Force, today turn the gods into this offering for us. May I be always in thy giving; may I be, O Agni, by thy help a bearer of good hero-strength.
उ॒त । त्वम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नः॒ । अ॒द्य । दे॒वान् । अ॒स्मिन् । अ॒ध्व॒रे । व॒वृ॒त्याः॒ । स्याम् । अ॒हम् । ते॒ । सद॑म् । इ॒त् । रा॒तौ । तव॑ । स्या॒म् । अ॒ग्ने॒ । अव॑सा । सु॒ऽवीरः॑ ॥उत । त्वम् । सूनो इति । सहसः । नः । अद्य । देवान् । अस्मिन् । अध्वरे । ववृत्याः । स्याम् । अहम् । ते । सदम् । इत् । रातौ । तव । स्याम् । अग्ने । अवसा । सुवीरः ॥uta | tvam | sūno iti | sahasaḥ | naḥ | adya | devān | asmin | adhvare | vavṛtyāḥ | syām | aham | te | sadam | it | rātau | tava | syām | agne | avasā | su-vīraḥ