Sukta 6.50
आ नो देवः सविता त्रायमाणो हिरण्यपाणिर्यजतो जगम्यात् । यो दत्रवाँ उषसो न प्रतीकं व्यूर्णुते दाशुषे वार्याणि ॥
आ नो॑ दे॒वः स॑वि॒ता त्राय॑माणो॒ हिर॑ण्यपाणिर्यज॒तो ज॑गम्यात् । यो दत्र॑वाँ उ॒षसो॒ न प्रती॑कं व्यूर्णु॒ते दा॒शुषे॒ वार्या॑णि ॥
ā́ no deváḥ savitā́ trā́yamāṇo híraṇya-pāṇir yajató jagamyāt | yó dátṛ-vāṃ uṣáso ná pratī́kaṃ vy-ūrṇuté dāśúṣe vā́ryāṇi ||
May Savitṛ, the god, come to us protecting, golden-handed, adorable—he who, rich in the gift, like the face of Dawn, unfolds for the giver the desirable riches (the things to be chosen).
आ । नः॒ । दे॒वः । स॒वि॒ता । त्राय॑माणः । हिर॑ण्यऽपाणिः । य॒ज॒तः । ज॒ग॒म्या॒त् । यः । दत्र॑ऽवान् । उ॒षसः॑ । न । प्रती॑कम् । वि॒ऽऊ॒र्णु॒ते । दा॒शुषे॑ । वार्या॑णि ॥आ । नः । देवः । सविता । त्रायमाणः । हिरण्यपाणिः । यजतः । जगम्यात् । यः । दत्रवान् । उषसः । न । प्रतीकम् । विऊर्णुते । दाशुषे । वार्याणि ॥ā | naḥ | devaḥ | savitā | trāyamāṇaḥ | hiraṇya-pāṇiḥ | yajataḥ | jagamyāt | yaḥ | datra-vān | uṣasaḥ | na | pratīkam | vi-ūrṇute | dāśuṣe | vāryāṇi