Sukta 6.50
उत त्या मे हवमा जग्म्यातं नासत्या धीभिर्युवमङ्ग विप्रा । अत्रिं न महस्तमसोऽमुमुक्तं तूर्वतं नरा दुरितादभीके ॥
उ॒त त्या मे॒ हव॒मा ज॑ग्म्यातं॒ नास॑त्या धी॒भिर्यु॒वम॒ङ्ग वि॑प्रा । अत्रिं॒ न म॒हस्तम॑सोऽमुमुक्तं॒ तूर्व॑तं नरा दुरि॒ताद॒भीके॑ ॥
utá tyā́ me hávam ā́ jagmyātam nā́satyā dhī́bhir yuvám aṅgá viprā́ | átriṃ ná mahás tám̐aso 'mumuktaṃ tū́rvatam narā duritā́d abhī́ke ||
And may you two, O Nāsatyas, come to my call with inspired thoughts, O wise ones. As you released Atri from the great darkness, so deliver us, O strong Men, from evil in the very nearness.
उ॒त । त्या । मे॒ । हव॑म् । आ । ज॒ग्म्या॒त॒म् । नास॑त्या । धी॒भिः । यु॒वम् । अ॒ङ्ग । वि॒प्रा॒ । अत्रि॑म् । न । म॒हः । तम॑सः । अ॒मु॒मु॒क्त॒म् । तूर्व॑तम् । न॒रा॒ । दुः॒ऽइ॒तात् । अ॒भीके॑ ॥उत । त्या । मे । हवम् । आ । जग्म्यातम् । नासत्या । धीभिः । युवम् । अङ्ग । विप्रा । अत्रिम् । न । महः । तमसः । अमुमुक्तम् । तूर्वतम् । नरा । दुःइतात् । अभीके ॥uta | tyā | me | havam | ā | jagmyātam | nāsatyā | dhībhiḥ | yuvam | aṅga | viprā | atrim | na | mahaḥ | tamasaḥ | amumuktam | tūrvatam | narā | duḥ-itāt | abhīke