Sukta 6.50
ओमानमापो मानुषीरमृक्तं धात तोकाय तनयाय शं योः । यूयं हि ष्ठा भिषजो मातृतमा विश्वस्य स्थातुर्जगतो जनित्रीः ॥
ओ॒मान॑मापो मानुषी॒रमृ॑क्तं॒ धात॑ तो॒काय॒ तन॑याय॒ शं योः । यू॒यं हि ष्ठा भि॒षजो॑ मा॒तृत॑मा॒ विश्व॑स्य स्था॒तुर्जग॑तो॒ जनि॑त्रीः ॥
omā́nam ā́po mānuṣī́r amṛ́ktaṃ dhāta tokā́ya tánayāya śáṃ yóḥ | yūyáṃ hí ṣṭhā bhiṣájo mātṛ́-tamā víśvasya sthātúr jágato jánitrīḥ ||
O Waters, human yet divine, establish for our child and our offspring an unbroken wholeness, peace and right delight. For you indeed are the healers, the most motherly, the begetters of all that stands and all that moves.
ओ॒मान॑म् । आपः । मा॒नु॒षीः॒ । अमृ॑क्तम् । धात॑ । तो॒काय॑ । तन॑याय । शम् । योः । यू॒यम् । हि । स्थ । भि॒षजः॑ । मा॒तृऽत॑माः । विश्व॑स्य । स्था॒तुः । जग॑तः । जनि॑त्रीः ॥ओमानम् । आपः । मानुषीः । अमृक्तम् । धात । तोकाय । तनयाय । शम् । योः । यूयम् । हि । स्थ । भिषजः । मातृतमाः । विश्वस्य । स्थातुः । जगतः । जनित्रीः ॥omānam | āpaḥ | mānuṣīḥ | amṛktam | dhāta | tokāya | tanayāya | śam | yoḥ | yūyam | hi | stha | bhiṣajaḥ | mātṛ-tamāḥ | viśvasya | sthātuḥ | jagataḥ | janitrīḥ