Sukta 6.50
अभि त्यं वीरं गिर्वणसमर्चेन्द्रं ब्रह्मणा जरितर्नवेन । श्रवदिद्धवमुप च स्तवानो रासद्वाजाँ उप महो गृणानः ॥
अ॒भि त्यं वी॒रं गिर्व॑णसम॒र्चेन्द्रं॒ ब्रह्म॑णा जरित॒र्नवे॑न । श्रव॒दिद्धव॒मुप॑ च॒ स्तवा॑नो॒ रास॒द्वाजाँ॒ उप॑ म॒हो गृ॑णा॒नः ॥
abhí tyáṃ vīráṃ gírvāṇasam arca índraṃ bráhmaṇā jaritar návena | śrávad íd dhávam úpa ca stávanō rāsád vājā́m̐ úpa mahó gṛṇānáḥ ||
Sing forth to that Hero, the delight of the chant—Indra—with a new-forming word of power, O singer. Surely he will hear the call; praised and approached, he will give the plenitudes of force, as we acclaim his greatness.
अ॒भि । त्यम् । वी॒रम् । गिर्व॑णसम् । अ॒र्च॒ । इन्द्र॑म् । ब्रह्म॑णा । ज॒रि॒तः॒ । नवे॑न । श्रव॑त् । इत् । हव॑म् । उप॑ । च॒ । स्तवा॑नः । रास॑त् । वाजा॑न् । उप॑ । म॒हः । गृ॒णा॒नः ॥अभि । त्यम् । वीरम् । गिर्वणसम् । अर्च । इन्द्रम् । ब्रह्मणा । जरितः । नवेन । श्रवत् । इत् । हवम् । उप । च । स्तवानः । रासत् । वाजान् । उप । महः । गृणानः ॥abhi | tyam | vīram | girvaṇasam | arca | indram | brahmaṇā | jaritaḥ | navena | śravat | it | havam | upa | ca | stavānaḥ | rāsat | vājān | upa | mahaḥ | gṛṇānaḥ