Sukta 6.50
सुज्योतिषः सूर्य दक्षपितॄननागास्त्वे सुमहो वीहि देवान् । द्विजन्मानो य ऋतसापः सत्याः स्वर्वन्तो यजता अग्निजिह्वाः ॥
सु॒ज्योति॑षः सूर्य॒ दक्ष॑पितॄननागा॒स्त्वे सु॑महो वीहि दे॒वान् । द्वि॒जन्मा॑नो॒ य ऋ॑त॒साप॑: स॒त्याः स्व॑र्वन्तो यज॒ता अ॑ग्निजि॒ह्वाः ॥
su-jyótiṣaḥ sū́rya dákṣa-pitṝ́n anāgā́s tve su-máho vīhi devā́n | dví-janmāno yá ṛtá-sā́paḥ satyā́ḥ svàr-vanto yajatā́ agní-jihvāḥ ||
O Sun of the good Light, lead hither the gods—those strong Fathers of right discernment—faultless in thy wideness, O Vast One. They who are twice-born, who drink of the Ṛta, who are the true, who bear the heaven-light within, adorable, with Agni as their tongue of offering—bring them to us.
सु॒ऽज्योति॑षः । सू॒र्य॒ । दक्ष॑ऽपितॄन् । अ॒ना॒गाः॒ऽत्वे । सु॒ऽम॒हः॒ । वी॒हि॒ । दे॒वान् । द्वि॒ऽजन्मा॑नः । ये । ऋ॒त॒ऽसापः॑ । स॒त्याः । स्वः॑ऽवन्तः । य॒ज॒ताः । अ॒ग्नि॒ऽजि॒ह्वाः ॥सुज्योतिषः । सूर्य । दक्षपितॄन् । अनागाःत्वे । सुमहः । वीहि । देवान् । द्विजन्मानः । ये । ऋतसापः । सत्याः । स्वःवन्तः । यजताः । अग्निजिह्वाः ॥su-jyotiṣaḥ | sūrya | dakṣa-pitṝn | anāgāḥ-tve | su-mahaḥ | vīhi | devān | dvi-janmānaḥ | ye | ṛta-sāpaḥ | satyāḥ | svaḥ-vantaḥ | yajatāḥ | agni-jihvāḥ