Sukta 6.50
हुवे वो देवीमदितिं नमोभिर्मृळीकाय वरुणं मित्रमग्निम् । अभिक्षदामर्यमणं सुशेवं त्रातॄन्देवान्त्सवितारं भगं च ॥
हु॒वे वो॑ दे॒वीमदि॑तिं॒ नमो॑भिर्मृळी॒काय॒ वरु॑णं मि॒त्रम॒ग्निम् । अ॒भि॒क्ष॒दाम॑र्य॒मणं॑ सु॒शेवं॑ त्रा॒तॄन्दे॒वान्त्स॑वि॒तारं॒ भगं॑ च ॥
huvé vo devī́m áditiṃ námo-bhir mṛḷīkā́ya váruṇaṃ mitrám agním | abhikṣadā́m aryamáṇaṃ suśévaṃ trātṝ́n devā́n savitā́raṃ bhágaṃ ca ||
With acts of reverence I call the goddess Aditi; and for grace I call Varuṇa, Mitra, and Agni; Aryaman who gives unbroken support, the kindly; the protecting gods—Savitṛ and Bhaga as well.
हु॒वे । वः॒ । दे॒वीम् । अदि॑तिम् । नमः॑ऽभिः । मृ॒ळी॒काय॑ । वरु॑णम् । मि॒त्रम् । अ॒ग्निम् । अ॒भि॒ऽक्ष॒दाम् । अ॒र्य॒मण॑म् । सु॒ऽशेव॑म् । त्रा॒तॄन् । दे॒वान् । स॒वि॒तार॑म् । भग॑म् । च॒ ॥हुवे । वः । देवीम् । अदितिम् । नमःभिः । मृळीकाय । वरुणम् । मित्रम् । अग्निम् । अभिक्षदाम् । अर्यमणम् । सुशेवम् । त्रातॄन् । देवान् । सवितारम् । भगम् । च ॥huve | vaḥ | devīm | aditim | namaḥ-bhiḥ | mṛḷīkāya | varuṇam | mitram | agnim | abhi kṣa-dām | aryamaṇam | su-śevam | trātṝn | devān | savitāram | bhagam | ca