Sukta 6.50
ते नो रायो द्युमतो वाजवतो दातारो भूत नृवतः पुरुक्षोः । दशस्यन्तो दिव्याः पार्थिवासो गोजाता अप्या मृळता च देवाः ॥
ते नो॑ रा॒यो द्यु॒मतो॒ वाज॑वतो दा॒तारो॑ भूत नृ॒वत॑: पुरु॒क्षोः । द॒श॒स्यन्तो॑ दि॒व्याः पार्थि॑वासो॒ गोजा॑ता॒ अप्या॑ मृ॒ळता॑ च देवाः ॥
té no rāyó dyumáto vājávato dātā́ro bhūta nṛ-vátaḥ puru-kṣóḥ | daśasyánto divyā́ḥ pārthivā́so go-jā́tā apyā́ mṛḷátā ca devāḥ ||
Become for us givers of the radiant fullness and the plenitudes of force—givers of manhood and wide dominion. You who are to be served, divine and earthly and of the waters, born of the Light—O gods, be gracious and bring us peace.
ते । नः॒ । रा॒यः । द्यु॒ऽमतः॑ । वाज॑ऽवतः । दा॒तारः॑ । भू॒त॒ । नृ॒ऽवतः॑ । पु॒रु॒ऽक्षोः । द॒श॒स्यन्तः॑ । दि॒व्याः । पार्थि॑वासः । गोऽजा॑ताः । अप्याः॑ । मृ॒ळत॑ । च॒ । दे॒वाः॒ ॥ते । नः । रायः । द्युमतः । वाजवतः । दातारः । भूत । नृवतः । पुरुक्षोः । दशस्यन्तः । दिव्याः । पार्थिवासः । गोजाताः । अप्याः । मृळत । च । देवाः ॥te | naḥ | rāyaḥ | dyu-mataḥ | vāja-vataḥ | dātāraḥ | bhūta | nṛ-vataḥ | puru-kṣoḥ | daśasyantaḥ | divyāḥ | pārthivāsaḥ | go--jātāḥ | apyāḥ | mṛḷata | ca | devāḥ