Sukta 6.5
त्वं विक्षु प्रदिवः सीद आसु क्रत्वा रथीरभवो वार्याणाम् । अत इनोषि विधते चिकित्वो व्यानुषग्जातवेदो वसूनि ॥
त्वं वि॒क्षु प्र॒दिव॑: सीद आ॒सु क्रत्वा॑ र॒थीर॑भवो॒ वार्या॑णाम् । अत॑ इनोषि विध॒ते चि॑कित्वो॒ व्या॑नु॒षग्जा॑तवेदो॒ वसू॑नि ॥
tvaṃ vikṣu pra-divaḥ sīda āsu kratvā rathīr abhavo vāryāṇām | ata inoṣi vidhate cikitvo vy ānuṣak jāta-vedo vasūni ||
You take your seat among the peoples, O one who comes from the luminous heights; by your will you become the charioteer of the desirable boons. Therefore you drive forward the riches for the one who serves—O conscious Knower, Jātavedas—distributing them in due succession.
त्वम् । वि॒क्षु । प्र॒ऽदिवः॑ । सी॒द॒ । आ॒सु । क्रत्वा॑ । र॒थीः । अ॒भ॒वः॒ । वार्या॑णाम् । अतः॑ । इ॒नो॒षि॒ । वि॒ध॒ते । चि॒कि॒त्वः॒ । वि । आ॒नु॒षक् । जा॒त॒ऽवे॒दः॒ । वसू॑नि ॥त्वम् । विक्षु । प्रदिवः । सीद । आसु । क्रत्वा । रथीः । अभवः । वार्याणाम् । अतः । इनोषि । विधते । चिकित्वः । वि । आनुषक् । जातवेदः । वसूनि ॥tvam | vikṣu | pra-divaḥ | sīda | āsu | kratvā | rathīḥ | abhavaḥ | vāryāṇām | ataḥ | inoṣi | vidhate | cikitvaḥ | vi | ānuṣak | jāta-vedaḥ | vasūni