Sukta 6.46
इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत् । छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥
इन्द्र॑ त्रि॒धातु॑ शर॒णं त्रि॒वरू॑थं स्वस्ति॒मत् । छ॒र्दिर्य॑च्छ म॒घव॑द्भ्यश्च॒ मह्यं॑ च या॒वया॑ दि॒द्युमे॑भ्यः ॥
índra tri-dhā́tu śaraṇáṃ tri-varū́thaṃ svastí-mat | chardír yaccha maghávad-bhyaś ca máhyaṃ ca yāváyā didyúmebhyaḥ ||
O Indra, a threefold-founded refuge, a triple shelter full of well-being—grant that covering to the bountiful ones and to me; drive far away from us the flashing powers of hurt.
इन्द्र॑ । त्रि॒ऽधातु॑ । श॒र॒णम् । त्रि॒ऽवरू॑थम् । स्व॒स्ति॒ऽमत् । छ॒र्दिः । य॒च्छ॒ । म॒घव॑त्ऽभ्यः । च॒ । मह्य॑म् । च॒ । य॒वय॑ । दि॒द्युम् । ए॒भ्यः॒ ॥इन्द्र । त्रिधातु । शरणम् । त्रिवरूथम् । स्वस्तिमत् । छर्दिः । यच्छ । मघवत्भ्यः । च । मह्यम् । च । यवय । दिद्युम् । एभ्यः ॥indra | tri-dhātu | śaraṇam | tri-varūtham | svasti-mat | chardiḥ | yaccha | maghavat-bhyaḥ | ca | mahyam | ca | yavaya | didyum | ebhyaḥ