Sukta 6.46
यद्वा तृक्षौ मघवन्द्रुह्यावा जने यत्पूरौ कच्च वृष्ण्यम् । अस्मभ्यं तद्रिरीहि सं नृषाह्येऽमित्रान्पृत्सु तुर्वणे ॥
यद्वा॑ तृ॒क्षौ म॑घवन्द्रु॒ह्यावा जने॒ यत्पू॒रौ कच्च॒ वृष्ण्य॑म् । अ॒स्मभ्यं॒ तद्रि॑रीहि॒ सं नृ॒षाह्ये॒ऽमित्रा॑न्पृ॒त्सु तु॒र्वणे॑ ॥
yád vā tṛkṣáu maghavann druhyā́vā́ jané yát pūráu kác ca vṛ́ṣṇyam | asmábhyaṃ tád rirīhi sáṃ nṛṣā́hye 'mítrān pṛtsú turváṇe ||
Or whatever bull-like victorious might thou didst set in Tṛkṣi and in Druhyu among men, or in Pūru—grant that to us; so that in the man-conquering battle we may overcome the hostile powers in the clashes.
यत् । वा॒ । तृ॒क्षौ । म॒घ॒ऽव॒न् । द्रु॒ह्यौ । आ । जने॑ । यत् । पू॒रौ । कत् । च॒ । वृष्ण्य॑म् । अ॒स्मभ्य॑म् । तत् । रि॒री॒हि॒ । सम् । नृ॒ऽसह्ये॑ । अ॒मित्रा॑न् । पृ॒त्ऽसु । तु॒र्वणे॑ ॥यत् । वा । तृक्षौ । मघवन् । द्रुह्यौ । आ । जने । यत् । पूरौ । कत् । च । वृष्ण्यम् । अस्मभ्यम् । तत् । रिरीहि । सम् । नृसह्ये । अमित्रान् । पृत्सु । तुर्वणे ॥yat | vā | tṛkṣau | magha-van | druhyau | ā | jane | yat | pūrau | kat | ca | vṛṣṇyam | asmabhyam | tat | rirīhi | sam | nṛ-sahye | amitrān | pṛt-su | turvaṇe