Sukta 6.46
यदिन्द्र नाहुषीष्वाँ ओजो नृम्णं च कृष्टिषु । यद्वा पञ्च क्षितीनां द्युम्नमा भर सत्रा विश्वानि पौंस्या ॥
यदि॑न्द्र॒ नाहु॑षी॒ष्वाँ ओजो॑ नृ॒म्णं च॑ कृ॒ष्टिषु॑ । यद्वा॒ पञ्च॑ क्षिती॒नां द्यु॒म्नमा भ॑र स॒त्रा विश्वा॑नि॒ पौंस्या॑ ॥
yád indra nā́huṣīṣv ā́ ójo nṛ́mṇaṃ ca kṛ́ṣṭiṣu | yád vā páñca kṣitīnā́m dyumnám ā́ bhara satrā́ víśvāni páuṃsyā ||
If, O Indra, among the Nahushas thou hast set force and manly puissance in the peoples; or if thou hast brought the splendour of the five habitations—bring to us wholly all those powers of virile mastery.
यत् । इ॒न्द्र॒ । नाहु॑षीषु । आ । ओजः॑ । नृ॒म्णम् । च॒ । कृ॒ष्टिषु॑ । यत् । वा॒ । पञ्च॑ । क्षि॒ती॒नाम् । द्यु॒म्नम् । आ । भ॒र॒ । स॒त्रा । विश्वा॑नि । पौंस्या॑ ॥यत् । इन्द्र । नाहुषीषु । आ । ओजः । नृम्णम् । च । कृष्टिषु । यत् । वा । पञ्च । क्षितीनाम् । द्युम्नम् । आ । भर । सत्रा । विश्वानि । पौंस्या ॥yat | indra | nāhuṣīṣu | ā | ojaḥ | nṛmṇam | ca | kṛṣṭiṣu | yat | vā | pañca | kṣitīnām | dyumnam | ā | bhara | satrā | viśvāni | paiṃsyā