Sukta 6.46
इन्द्र ज्येष्ठं न आ भरँ ओजिष्ठं पपुरि श्रवः । येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः ॥
इन्द्र॒ ज्येष्ठं॑ न॒ आ भ॑रँ॒ ओजि॑ष्ठं॒ पपु॑रि॒ श्रव॑: । येने॒मे चि॑त्र वज्रहस्त॒ रोद॑सी॒ ओभे सु॑शिप्र॒ प्राः ॥
índra jyéṣṭhaṃ na ā́ bharaṃ ójiṣṭhaṃ pápuri śrávaḥ | yénemé citra vajrahasta ródasī óbhe suśipra prā́ḥ ||
O Indra, bring to us the eldest and most puissant force, the fame that is full and overflowing—by which, O wondrous one, wielder of the thunderbolt, fair-lipped, thou hast filled both Heaven and Earth with thy out-breathing might.
इन्द्र॑ । ज्येष्ठ॑म् । नः॒ । आ । भ॒र॒ । ओजि॑ष्ठम् । पपु॑रि । श्रवः॑ । येन॑ । इ॒मे इति॑ । चि॒त्र॒ । व॒ज्र॒ऽह॒स्त॒ । रोद॑सी॒ इति॑ । आ । उ॒भे इति॑ । सु॒शि॒प्र॒ । प्राः ॥इन्द्र । ज्येष्ठम् । नः । आ । भर । ओजिष्ठम् । पपुरि । श्रवः । येन । इमे इति । चित्र । वज्रहस्त । रोदसी इति । आ । उभे इति । सुशिप्र । प्राः ॥indra | jyeṣṭham | naḥ | ā | bhara | ojiṣṭham | papuri | śravaḥ | yena | ime iti | citra | vajra-hasta | rodasī iti | ā | ubhe iti | suśipra | prāḥ